मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २, ऋक् १

संहिता

पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँरृ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ॑णाम॒स्याय॑जिष्ठः ॥

पदपाठः

पि॒प्री॒हि । दे॒वान् । उ॒श॒तः । य॒वि॒ष्ठ॒ । वि॒द्वान् । ऋ॒तून् । ऋ॒तु॒ऽप॒ते॒ । य॒ज॒ । इ॒ह ।
ये । दैव्याः॑ । ऋ॒त्विजः॑ । तेभिः॑ । अ॒ग्ने॒ । त्वम् । होतॄ॑णाम् । अ॒सि॒ । आऽय॑जिष्ठः ॥

सायणभाष्यम्

हे यविष्ठ युवतम अग्ने उशतः स्तुतोः श्रोतुं कामयमानान् देवान् पिप्रीहि हविर्भिः प्रीणय । हे ऋतपते ऋतूनां देवयागकालानां स्वामिन् अग्ने ऋतून् यागकालन् विद्वान् जानानः त्वं इहास्मिन् यज्ञे तान् यज पूजय । किंच हे अग्ने दैव्याः देवेषु भवाः अग्नि- र्होताश्विनावध्वर्यूत्वष्टाग्नीन्मित्रउपवक्तेत्यत्रोक्ताये ऋत्विजः सन्ति तेभिस्तैः सह देवान्य- ज यद्वा दैव्याः देवेषु भवाऋत्विजः आश्वलायनेनोक्ताः चंद्रमाब्रह्मादित्योध्वर्युः पर्जन्य- उद्गातेति यद्वा दैव्याः देवेषु भवाऋत्विजः आश्वलायनेनोक्ताः चंद्रमाब्रह्मादित्योध्वर्युः पर्जन्यौद्गातेति । तैः सह यज । यस्मात्त्वं होतॄणां मध्ये आयजिष्ठः आभिमुख्येन देवानां यष्टृतमोसि भवसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०