मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २, ऋक् २

संहिता

वेषि॑ हो॒त्रमु॒त पो॒त्रं जना॑नां मन्धा॒तासि॑ द्रविणो॒दा ऋ॒तावा॑ ।
स्वाहा॑ व॒यं कृ॒णवा॑मा ह॒वींषि॑ दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ॥

पदपाठः

वेषि॑ । हो॒त्रम् । उ॒त । पो॒त्रम् । जना॑नाम् । म॒न्धा॒ता । अ॒सि॒ । द्र॒वि॒णः॒ऽदाः । ऋ॒तऽवा॑ ।
स्वाहा॑ । व॒यम् । कृ॒णवा॑म । ह॒वींषि॑ । दे॒वः । दे॒वान् । य॒ज॒तु॒ । अ॒ग्निः । अर्ह॑न् ॥

सायणभाष्यम्

हे अग्ने जनानां यजमानार्थं होत्रं होतुः कर्म तेन क्रियमाणं स्तोत्रं वेषि कामयसे । उतापिच पोत्रं पोतुः कर्म तेन क्रियमाणां स्तुतिं कामयसे । किंच मन्धाता मेधावी ऋ- तावा सत्यवांस्त्वं द्रविणोदा असि धनस्य प्रदाता भवसि । अथ परोक्षः वयं देवेभ्यः हवींषि स्वाहाकृणवाम स्वाहाकरवाम प्रयच्छाम । ततोदेवोदीप्यमानः अर्हन् प्रशायः यजमानयोग्योवाग्निः देवान्यजतु तैर्हविर्भिः पूजयतु ॥ २ ॥ दर्शपूर्णमासातिपत्यादौ निमित्ते पाथिकृतीष्टिः कर्तव्या । तत्र आदेवानामित्येषा या- ज्या । सूत्रितंच—वेत्थाहिवेधोअध्वनआदेवानामपिपन्थामगन्मेति । प्रायणीयायामप्येषैव याज्या उदयनीयायां सैवानुवाक्या । सूत्रितंच—अग्नेनयसुपथारायेअस्मानादेवानामपिपं- थामगन्मेति विपरीताश्चयाज्यानुवाक्याइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०