मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २, ऋक् ३

संहिता

आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ळ्हुम् ।
अ॒ग्निर्वि॒द्वान्त्स य॑जा॒त्सेदु॒ होता॒ सो अ॑ध्व॒रान्त्स ऋ॒तून्क॑ल्पयाति ॥

पदपाठः

आ । दे॒वाना॑म् । अपि॑ । पन्था॑म् । अ॒ग॒न्म॒ । यत् । श॒क्नवा॑म । तत् । अनु॑ । प्रऽवो॑ळ्हुम् ।
अ॒ग्निः । वि॒द्वान् । सः । य॒जा॒त् । सः । इत् । ऊं॒ इति॑ । होता॑ । सः । अ॒ध्व॒रान् । सः । ऋ॒तून् । क॒ल्प॒या॒ति॒ ॥

सायणभाष्यम्

देवानां देवलोकादिगमनसाधनं देवानां स्वभूतं पंथां पंथानं तमपि वैदिकमार्गं वयमागन्म आगतवन्तोभवेम । येन देवान् प्राप्नुमः तथा वयं यत्कर्मानुष्ठातुं शक्रुवाम शक्रुमः समर्थाभवामः तत्कर्म अनुक्रमेण प्रवोह्ळुं प्रकर्षेण वोढुं समप्तिं प्रापयितुं सम- र्थाभवामः अनन्तरं विद्वान् तं पंथानं जानानः सोग्निः यजात् देवान् यजतु सेतु उ सएव खलु होता मनुष्याणां होमनिष्पादकः ततः सएवाग्निः अध्वरान् यज्ञान् किंच सएव ऋतून् कालान् कल्पयाति कल्पयतु करोतु ॥ ३ ॥ व्रतातिपत्तौ व्रातपतीष्टिः कर्तव्या तत्र यद्वोवयमित्येषा याज्या । सूत्रितंच—त्वमग्नेवत- पाअसि यद्वोवयंप्रमिनामव्रतानीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०