मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २, ऋक् ४

संहिता

यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑ देवा॒ अवि॑दुष्टरासः ।
अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्येभि॑र्दे॒वाँ ऋ॒तुभि॑ः क॒ल्पया॑ति ॥

पदपाठः

तत् । वः॒ । व॒यम् । प्र॒ऽमि॒नाम॑ । व्र॒तानि॑ । वि॒दुषा॑म् । दे॒वाः॒ । अवि॑दुःऽतरासः ।
अ॒ग्निः । तत् । विश्व॑म् । आ । पृ॒णा॒ति॒ । वि॒द्वान् । येभिः॑ । दे॒वान् । ऋ॒तुऽभिः॑ । क॒ल्पया॑ति ॥

सायणभाष्यम्

हे देवाः अविदुष्टरासः अविद्वत्तराः अत्यन्तमजानन्तोवयं वः युष्माकं यत् यत्किंचित् व्रतानि कर्माणि विदुषां भवतां जानतामेव प्रमिनाम प्रहिंसितवन्तः भवत्सु जानत्सु नि- त्यनैमित्तिककर्माणि विलोपितवन्तइत्यर्थः । विद्वान् एतत्सर्वं जानानः अग्निः तत् स्विष्ट- कृतं विश्वं सर्वं कर्मजातं आपृणाति आपूरयतु फलसहितं करोत्वित्यर्थः । केनापूरयतु त- त्राह येभिरृतुभिः यागयोग्यैः कालैः देवान् कल्पयाति कल्पयति कर्मांगभावाय समर्थ- यति तैरापूरयतु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०