मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २, ऋक् ५

संहिता

यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥

पदपाठः

यत् । पा॒क॒ऽत्रा । मन॑सा । दी॒नऽद॑क्षाः । न । य॒ज्ञस्य॑ । म॒न्व॒ते । मर्त्या॑सः ।
अ॒ग्निः । तत् । होता॑ । क्र॒तु॒ऽवित् । वि॒ऽजा॒नन् । यजि॑ष्ठः । दे॒वान् । ऋ॒तु॒ऽशः । य॒जा॒ति॒ ॥

सायणभाष्यम्

दीनदक्षाः दीनबलाः दीनोत्साहावा मर्त्यासोमर्त्याः मनुष्याऋत्विजः पाकत्रा पाकेन बहुलग्रहणादस्मादपि तृतीयार्थे त्राप्रत्ययः । पाकेन पक्तव्येन विशिष्टज्ञानरहितेन अल्पेन वा मनसा युक्ताः सन्तः यज्ञस्य यज्ञसंबन्धि यत्कर्म न मन्वते नविजानन्तः तदा होता देवानामाह्वाता होमनिष्पादकोवा क्रतुवित् कर्मवित् यजिष्ठः देवानामतिशयेन यष्टा अग्निः तत् तेन कर्मणा ऋतुशः ऋतावृतौ स्वेस्वे यागयोग्ये काले देवान् यजाति यजतु हविर्भिः पूजयतु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०