मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् २, ऋक् ६

संहिता

विश्वे॑षां॒ ह्य॑ध्व॒राणा॒मनी॑कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ ।
स आ य॑जस्व नृ॒वती॒रनु॒ क्षाः स्पा॒र्हा इषः॑ क्षु॒मती॑र्वि॒श्वज॑न्याः ॥

पदपाठः

विश्वे॑षाम् । हि । अ॒ध्व॒राणा॑म् । अनी॑कम् । चि॒त्रम् । के॒तुम् । जनि॑ता । त्वा॒ । ज॒जान॑ ।
सः । आ । य॒ज॒स्व॒ । नृ॒ऽवतीः॑ । अनु॑ । क्षाः । स्पा॒र्हाः । इषः॑ । क्षु॒ऽमतीः॑ । वि॒श्वऽज॑न्याः ॥

सायणभाष्यम्

हे अग्ने विश्वेषां सर्वेषां अध्वराणां यज्ञानां अनीकं सुखं प्रधानं चित्रं चायनीयं नाना रूपं केतुं प्रज्ञापकं त्वा त्वां जनिता जनयिता प्रजापतिर्यजमानोवा जजान जनयामास । उत्पादितः सत्वं नृवतीः दासादियुक्ताः क्षाः पृथिवीनामैतत् क्षयंत्यत्रेति क्षा भूमिः अन्वा- यजस्व अनुप्रयच्छ । यद्वा नृवतीः नृभिः संस्कृतानि क्षां अनु पृथिवीं वेदिलक्षणां अनुग- तानि वेद्यामासादितानि स्पार्हाः स्पृहणीयानि क्षुमतीः स्तुतिमंत्रलक्षणशब्दवन्ति विश्व- जन्याः सर्वजनहितानि वृष्ट्यन्नहेतुत्वात् । तानि इषोन्नानि हविर्लक्षणानि आयजस्व देवे- भ्यः प्रयच्छ ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०