मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३, ऋक् २

संहिता

कृ॒ष्णां यदेनी॑म॒भि वर्प॑सा॒ भूज्ज॒नय॒न्योषां॑ बृह॒तः पि॒तुर्जाम् ।
ऊ॒र्ध्वं भा॒नुं सूर्य॑स्य स्तभा॒यन्दि॒वो वसु॑भिरर॒तिर्वि भा॑ति ॥

पदपाठः

कृ॒ष्णाम् । यत् । एनी॑म् । अ॒भि । वर्प॑सा । भूत् । ज॒नय॑न् । योषा॑म् । बृ॒ह॒तः । पि॒तुः । जाम् ।
ऊ॒र्ध्वम् । भा॒नुम् । सूर्य॑स्य । स्त॒भा॒यन् । दि॒वः । वसु॑ऽभिः । अ॒र॒तिः । वि । भा॒ति॒ ॥

सायणभाष्यम्

सोग्निर्यद्यदा कृष्णां कृष्णवर्णं एनीं गच्छन्तीं रात्रिं वर्पसा आत्मीयेन ज्वालालक्षणेन रूपेण अभिभूत् अभिभवति । किंकुर्वन् बृहतोमहतः पितुः सर्वस्य जगतः पालयितुः पि- तृभूताद्वा आदित्यान् जां जायमानां योषां उषसं जनयन् अभिव्यंजयन् रात्रिमभ्यभूत् तदानीमरतिः गमनशीलोग्निः दिवोद्युलोकस्य वसुभिः वासयितृभिः आच्छादकैः संधुक्षण- समर्थैरात्मीयैः तेजोभिः सूर्यस्य भानुं दीप्तिं ऊर्ध्वमुपरिष्टात् स्तभायन् स्तंभयन् विभाति विशेषेण दीप्यते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१