मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३, ऋक् ३

संहिता

भ॒द्रो भ॒द्रया॒ सच॑मान॒ आगा॒त्स्वसा॑रं जा॒रो अ॒भ्ये॑ति प॒श्चात् ।
सु॒प्र॒के॒तैर्द्युभि॑र॒ग्निर्वि॒तिष्ठ॒न्रुश॑द्भि॒र्वर्णै॑र॒भि रा॒मम॑स्थात् ॥

पदपाठः

भ॒द्रः । भ॒द्रया॑ । सच॑मानः । आ । अ॒गा॒त् । स्वसा॑रम् । जा॒रः । अ॒भि । ए॒ति॒ । प॒श्चात् ।
सु॒ऽप्र॒के॒तैः । द्युऽभिः॑ । अ॒ग्निः । वि॒ऽतिष्ठ॑न् । रुश॑त्ऽभिः । वर्णैः॑ । अ॒भि । रा॒मम् । अ॒स्था॒त् ॥

सायणभाष्यम्

भद्रोभजनीयः कल्याणः भद्रया भजनीयया दीप्त्या उषसावा सचमानः द्सेव्यमानः संगच्छमानोवाग्निः आगात् आजगाम गार्हपत्यादाहवनीयमागच्छति । ततः पश्चात् जारो- जरयिता शत्रूणां सोग्निः स्वसारं स्वयंसारिणीं भगिनींवा आगतामुषसं अभ्येति अभिग- च्छति । तथा सुप्रकेतैः सुप्रज्ञानैः द्युभिर्दीप्तैस्तेजोभिः सह वितिष्ठन् सर्वतोवर्तमानः सोग्निः रुशद्भिः श्वेतवर्णैः वर्णैः वारकैरात्मीयैस्तेजोभिः रामं कृष्णवर्णं शार्वरं तमः अभ्यस्थात् सायं होमकाले अभिभूय तिष्ठति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१