मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३, ऋक् ५

संहिता

स्व॒ना न यस्य॒ भामा॑स॒ः पव॑न्ते॒ रोच॑मानस्य बृह॒तः सु॒दिवः॑ ।
ज्येष्ठे॑भि॒र्यस्तेजि॑ष्ठैः क्रीळु॒मद्भि॒र्वर्षि॑ष्ठेभिर्भा॒नुभि॒र्नक्ष॑ति॒ द्याम् ॥

पदपाठः

स्व॒नाः । न । यस्य॑ । भामा॑सः । पव॑न्ते । रोच॑मानस्य । बृ॒ह॒तः । सु॒ऽदिवः॑ ।
ज्येष्ठे॑भिः । यः । तेजि॑ष्ठैः । क्री॒ळु॒मत्ऽभिः॑ । वर्षि॑ष्ठेभिः । भा॒नुऽभिः॑ । नक्ष॑ति । द्याम् ॥

सायणभाष्यम्

रोचमानस्य दीप्यमानस्य बृहतोमहतः सुदिवः शोभनदीप्तेर्वा यस्याग्नेः स्वभूताभामा- सः भादीप्तौ दीप्तारश्मयः स्वनान स्वनन्तोमरुतइव पवन्ते सर्वतः शब्दंकुर्वंतोगच्छन्ति । किंच योग्निः ज्येष्ठेभिः अत्यंतं प्रशस्तैः तेजिष्ठैः तेजस्वितमैः क्रीळुमद्भिः क्रीडनवद्भिः वर्षिष्ठेभिर्वृर्द्धतमैः भानुमद्भिः आत्मीयैस्तेजोभिः द्यां द्युलोकं नक्षति व्याप्नोतीति । सत्वं देवानावहेति उत्तरेण संबन्धः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१