मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ३, ऋक् ७

संहिता

स आ व॑क्षि॒ महि॑ न॒ आ च॑ सत्सि दि॒वस्पृ॑थि॒व्योर॑र॒तिर्यु॑व॒त्योः ।
अ॒ग्निः सु॒तुकः॑ सु॒तुके॑भि॒रश्वै॒ रभ॑स्वद्भी॒ रभ॑स्वाँ॒ एह ग॑म्याः ॥

पदपाठः

सः । आ । व॒क्षि॒ । महि॑ । नः॒ । आ । च॒ । स॒त्सि॒ । दि॒वःपृ॑थि॒व्योः । अ॒र॒तिः । यु॒व॒त्योः ।
अ॒ग्निः । सु॒ऽतुकः॑ । सु॒त्ऽउके॑भिः । अश्वैः॑ । रभ॑स्वत्ऽभिः । रभ॑स्वान् । आ । इ॒ह । ग॒म्याः॒ ॥

सायणभाष्यम्

हे अग्ने सतादृशस्त्वं नोस्मदीये यज्ञे महि महान् देवान् आवक्षि आवह प्रापय । किंच युवत्योः परस्परं मिश्रितयोः तरुण्योर्वा दिवस्पृथिव्योर्द्यावापृथिव्योर्मध्ये अरतिः अग्निः सू- र्यात्मनागन्ता त्वं आसत्सि अस्माकं यज्ञमासीद । तथा सुतुकः तुकिर्गत्यर्थः सुगमः स्तोतृ भिर्यष्टृभिश्च सुखेन प्राप्तव्यः रभस्वान् वेगवान् अग्निः अंगनादिगुणयुक्तस्त्वं सुतुकेभिः सुग- मैः रभस्वद्भिर्वेगवद्भिरश्वैरोहिदाख्यैः सह इहास्मदीये यज्ञे आगम्याः आगच्छ ॥ ७ ॥

प्रतइति सप्तर्चं चतुर्थं सूक्तं रुष्याद्याः पूर्ववत् । प्रतइत्यनुक्रान्तम् । प्रातरनुवाकाश्विन- शस्त्रयोरुक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१