मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४, ऋक् १

संहिता

प्र ते॑ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु ।
धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे॑ पू॒रवे॑ प्रत्न राजन् ॥

पदपाठः

प्र । ते॒ । य॒क्षि॒ । प्र । ते॒ । इ॒य॒र्मि॒ । मन्म॑ । भुवः॑ । यथा॑ । वन्द्यः॑ । नः॒ । हवे॑षु ।
धन्व॑न्ऽइव । प्र॒ऽपा । अ॒सि॒ । त्वम् । अ॒ग्ने॒ । इ॒य॒क्षवे॑ । पू॒रवे॑ । प्र॒त्न॒ । रा॒ज॒न् ॥

सायणभाष्यम्

हे अग्ने ते तुभ्यं हविः प्रयक्षि प्रयच्छामि यजिर्दानार्थः । तथा मन्म मननीयां स्तुतिं हे त्वदर्थं प्रेयर्मि प्रेरयामि । प्रोच्चारयामि वंद्यः सर्वैर्वंदनीयस्त्वं नोस्मदीयेषु हवेषु देवा- ह्वानेषु यथा त्वं सन्निहितोभुवोभवसि तथा हविः प्रयच्छामि स्तौमिच । हे प्रत्न पुराण राजन् सर्वस्य जगतः स्वामिन् हे अग्ने सत्वं इयक्षवे यष्टुमिच्छवे पूरवे पूरुरिति मनुष्य- नाम मनुष्याय यजमानाय यद्वा पूरवे हविर्भिर्देवान् पूरयित्रे जनाय धन्वन् इव प्रपाअ- सि यथा । धन्वन् धन्वनि मरौ निरुदकप्रदेशे प्रपा प्रपिबंत्यत्रेति प्रपा सा यथा उदक- प्रदानेन जनेभ्यः सुखदाभवति एवं त्वं धनदानेन तस्मै सुखदाता भवसि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२