शिशुं॒ न त्वा॒ जेन्यं॑ व॒र्धय॑न्ती मा॒ता बि॑भर्ति सचन॒स्यमा॑ना ।
धनो॒रधि॑ प्र॒वता॑ यासि॒ हर्य॒ञ्जिगी॑षसे प॒शुरि॒वाव॑सृष्टः ॥
शिशु॑म् । न । त्वा॒ । जेन्य॑म् । व॒र्धय॑न्ती । मा॒ता । बि॒भ॒र्ति॒ । स॒च॒न॒स्यमा॑ना ।
धनोः॑ । अधि॑ । प्र॒ऽवता॑ । या॒सि॒ । हर्य॑म् । जिगी॑षसे । प॒शुःऽइ॑व । अव॑ऽसृष्टः ॥
हे अग्ने जेन्यं जयशीलं त्वा त्वां शिशुंन पुत्रमिव वर्धयन्ती पोषयन्ती माता पृथिवी सचनस्यमाना संपर्कमिच्छन्ती सती बिभर्ति धारयति । सत्वं हर्यन् कामयमानः तस्मिन् लोके धनोरधि अधिः सप्तम्यर्थद्योतकः धनोः अन्तरिक्षात् प्रवता प्रवणेन मार्गेण यासि यज्ञं प्रत्यागच्छसि । किंच त्वं अवसृष्टो यष्टृभिः हविरादाय जिगीषसे देवान् प्रतिगन्तु- मिच्छसि । कथमिव पशुरिव यथा विमुक्तः पशुः गोष्ठं प्रत्यागच्छति तद्वत् ॥ ३ ॥