मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४, ऋक् ५

संहिता

कूचि॑ज्जायते॒ सन॑यासु॒ नव्यो॒ वने॑ तस्थौ पलि॒तो धू॒मके॑तुः ।
अ॒स्ना॒तापो॑ वृष॒भो न प्र वे॑ति॒ सचे॑तसो॒ यं प्र॒णय॑न्त॒ मर्ता॑ः ॥

पदपाठः

कूऽचि॑त् । जा॒य॒ते॒ । सन॑यासु । नव्यः॑ । वने॑ । त॒स्थौ॒ । प॒लि॒तः । धू॒मऽके॑तुः ।
अ॒स्ना॒ता । आपः॑ । वृ॒ष॒भः । न । प्र । वे॒ति॒ । सऽचे॑तसः । यम् । प्र॒ऽनय॑न्त । मर्ताः॑ ॥

सायणभाष्यम्

नव्योनवतरः स्तुत्योवाग्निः कूचित् क्वचित् प्रदेशे जायते कुत्र सनयासु पुराणीषु जी- र्णास्वोषधीषु अरण्योः तथा पलितः पालयिताश्वेतवर्णोधूमकेतुः धूमप्रज्ञानोग्निः वने सर्व- स्मिन्नरण्ये तस्थौ तिष्ठति । यद्वा वने उदके मेघगते विद्युदात्मना तिष्ठतिच अस्नाता स्ना- नमकुर्वन् अनपेक्षितस्नानः सर्वदा शुद्धः सोग्निः आपः सुब् व्यत्ययः अपउदकानि शांत्यर्थं प्रवेति प्रगच्छति । तत्र दृष्टान्तः—वृषभोन यथावृषभः तृष्णोपशमनार्थमरण्यमध्यस्थान्युद- कानि प्रगच्छति तद्वत् मर्ता मनुष्यारुत्विजः सचेतसः समानमनस्काः समानप्रज्ञानाः सन्तः यमग्निं प्रणयन्त हविर्भिः प्रीणयन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२