मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ४, ऋक् ७

संहिता

ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् ।
रक्षा॑ णो अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥

पदपाठः

ब्रह्म॑ । च॒ । ते॒ । जा॒त॒ऽवे॒दः॒ । नमः॑ । च॒ । इ॒यम् । च॒ । गीः । सद॑म् । इत् । वर्ध॑नी । भू॒त् ।
रक्ष॑ । नः॒ । अ॒ग्ने॒ । तन॑यानि । तो॒का । रक्ष॑ । उ॒त । नः॒ । त॒न्वः॑ । अप्र॑ऽयुच्छन् ॥

सायणभाष्यम्

हे जातवेदः जातप्रज्ञाग्ने ते त्वदर्थं ब्रह्मास्माभिर्दीयमानं हवीरूपमद्भुतमन्नं वर्धनीभूत् भवतु । तथा नमोनमस्कारश्च । किंच इयमिदानींक्रियमाणा एषा स्तुतिः सदमित् सदैव वर्धयित्री भूत् भवतु । तस्मात् हे अग्ने नोस्माकं तनयानि पुत्रान् तोकापौत्रांश्च रक्ष पालय । उतापिच अप्रयुच्छन् अप्रमाद्यंस्त्वं नोस्माकं तन्वोंगानि रक्ष ॥ ७ ॥

एकः समुद्रइति सप्तर्चं पञ्चमं सूक्तं ऋष्याद्याः पूर्ववत् विनियोगश्च एकइत्यनुक्रान्तम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२