मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५, ऋक् १

संहिता

एकः॑ समु॒द्रो ध॒रुणो॑ रयी॒णाम॒स्मद्धृ॒दो भूरि॑जन्मा॒ वि च॑ष्टे ।
सिष॒क्त्यूध॑र्नि॒ण्योरु॒पस्थ॒ उत्स॑स्य॒ मध्ये॒ निहि॑तं प॒दं वेः ॥

पदपाठः

एकः॑ । स॒मु॒द्रः । ध॒रुणः॑ । र॒यी॒णाम् । अ॒स्मत् । हृ॒दः । भूरि॑ऽजन्मा । वि । च॒ष्टे॒ ।
सिस॑क्ति । ऊधः॑ । नि॒ण्योः । उ॒पऽस्थे॑ । उत्स॑स्य । मध्ये॑ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः ॥

सायणभाष्यम्

समुद्रः यस्माद्वनान्युदकानि समुद्रवन्तीति तादृशः रयीणां धनानां धरुणोधारयिता एकः असहायः भूरिजन्मा बहुविधजननः नानायज्ञेष्वाहवनीयादिभावेन बहुजननः सोग्निः अस्मात् सुपांसुलुगिति षष्ठ्यालुक् अस्माकं हृदोहृद्यान्यभिलषितानि विचष्टे विपश्यति जानाति । उक्तंच—मनोवैदेवामनुष्यस्यजानन्तीति । किंच निण्योः अन्तर्हितनामैतत् अन्त- र्हितयोर्ज्योतिस्तमोभ्यामाच्छादितयोः प्रातः सायंकालयोः उपस्थे उअप्स्थाने समीपे वर्त- मानमूधोरात्रिं सिषक्ति सेवते उपजीवति । यद्वा निण्योः अन्तर्हितस्यान्तरिक्षस्य समीपे वर्तमानमूधोमेघं सेवते । अथ प्रत्यक्षः हे अग्ने उत्सस्य उदकधारकस्य लोकस्य मध्ये पद- मपां स्थानं निहितं तन्माध्यमिकां वाचं वेः गच्छ । यद्वा उत्सस्य मेघस्य मध्ये निहितं पदं विद्युदाख्यं तत् स्वात्मतया गच्छ । वेः वीगत्यादिषु लङि सिपि रूपं वाक्यभेदाद- निघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३