मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५, ऋक् २

संहिता

स॒मा॒नं नी॒ळं वृष॑णो॒ वसा॑ना॒ः सं ज॑ग्मिरे महि॒षा अर्व॑तीभिः ।
ऋ॒तस्य॑ प॒दं क॒वयो॒ नि पा॑न्ति॒ गुहा॒ नामा॑नि दधिरे॒ परा॑णि ॥

पदपाठः

स॒मा॒नम् । नी॒ळम् । वृष॑णः । वसा॑नाः । सम् । ज॒ग्मि॒रे॒ । म॒हि॒षाः । अर्व॑तीभिः ।
ऋ॒तस्य॑ । प॒दम् । क॒वयः॑ । नि । पा॒न्ति॒ । गुहा॑ । नामा॑नि । द॒धि॒रे॒ । परा॑णि ॥

सायणभाष्यम्

वृषणः आहुतीनां सेक्तारः समानमेकं नीलंस्थानमग्निं वसानाः मंत्रतआच्छाद्यन्तोम- हिशामहान्तोयजमानाः अर्वतीभिर्वडवाभिः संजग्मिरे समगच्छन्त । अश्ववन्तोभूवन् यद्वा अग्निमेव आत्मीययज्ञं प्रत्यागन्तुं रोहिदाख्याभिर्वडवाभिः संयोजितवन्तः तथा कवयोमे- धाविनः ऋतस्योदकस्य पदमावासस्थानमग्निं निपान्ति नितरां रक्षन्ति हविर्भिः स्तुति- भिश्चाराधयंतीत्यर्थः । ततोगुहा गुहायामन्तारिक्षे स्थितानि पराणि दिव्यानि नामानि उदकानि दधिरे धारयन्ति । यद्वा गुहा गूढे संवृते हृदये पराणि प्रधानानि अग्निर्जात- वेदावैश्वानरइत्यादीनि नामानि दधिरे कुर्वन्ति स्तुवन्तीत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३