मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५, ऋक् ३

संहिता

ऋ॒ता॒यिनी॑ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं॑ जज्ञतुर्व॒र्धय॑न्ती ।
विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तन्तुं॒ मन॑सा वि॒यन्त॑ः ॥

पदपाठः

ऋ॒त॒यिनी॒ इत्यृ॑त॒ऽयिनी॑ । मा॒यिनी॒ इति॑ । सम् । द॒धा॒ते॒ इति॑ । मि॒त्वा । शिशु॑म् । ज॒ज्ञ॒तुः॒ । व॒र्धय॑न्ती॒ इति॑ ।
विश्व॑स्य । नाभि॑म् । चर॑तः । ध्रु॒वस्य॑ । क॒वेः । चि॒त् । तन्तु॑म् । मन॑सा । वि॒ऽयन्तः॑ ॥

सायणभाष्यम्

ऋतायिनी ऋतवत्यौ सत्यवत्यौ अतएव मायिनी प्रज्ञावत्यौ कर्मयुक्तेवा द्यावापृथि- व्यौ यज्ञसाधनभूते अरणी वा इममग्निं संदधाते सम्यक् धारयतः अग्निसूर्यात्मना केवला- ग्न्यात्मनावा संदधाते । मित्वा कालपरिमाणं कृत्वा यद्वा संपरिच्छिद्यशिशुं शंसनीयं बालमग्निं जज्ञतुः जनयतः वर्धयन्ती वर्धन्त्यौ द्यावापृथिव्यौ लोके यथा परिच्छेदाय पुत्रं पितरौ जनयतः तद्वत् । ततः विश्वस्य सर्वस्य चरतोजंगमस्य ध्रुवस्य स्थावरस्यच जग- तोनाभिं नाभिभूतं मध्यं प्रधानभूतं वा कवेर्मेधाविनोग्नेस्तन्तुं तनितारं वैश्वानराख्यमंशुं चित् मनसा वियन्तोविविधं गच्छन्तोमनुष्याः सुखेन युज्यन्ते इतिशेषः तं वयं यजाम- इतिवा ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३