मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५, ऋक् ५

संहिता

स॒प्त स्वसॄ॒ररु॑षीर्वावशा॒नो वि॒द्वान्मध्व॒ उज्ज॑भारा दृ॒शे कम् ।
अ॒न्तर्ये॑मे अ॒न्तरि॑क्षे पुरा॒जा इ॒च्छन्व॒व्रिम॑विदत्पूष॒णस्य॑ ॥

पदपाठः

स॒प्त । स्वसॄः॑ । अरु॑षीः । वा॒व॒शा॒नः । वि॒द्वान् । मध्वः॑ । उत् । ज॒भा॒र॒ । दृ॒शे । कम् ।
अ॒न्तः । ये॒मे॒ । अ॒न्तरि॑क्षे । पु॒रा॒ऽजाः । इ॒च्छन् । व॒व्रिम् । अ॒वि॒द॒त् । पू॒ष॒णस्य॑ ॥

सायणभाष्यम्

वावशानः कामयमानः वाश्यमानः वेष्ट्यमानः स्तोतृभिः स्तूयमानोवा विद्वान् सर्वं जानानः सोग्निः अरुषीरारोचमानाः सप्त सप्तसंख्याकाः स्वसॄः स्वयंसारिणीः कालीकरा- लीचेत्यादिकाः सप्तजिह्वाः मध्वोमदकराद्यज्ञात् उज्जभार उज्जहार ऊर्ध्वं हृतवान् यज्ञे स्वतेजसा प्रादुर्भूतइत्यर्थः । किमर्थं कं सुखेन दृशे सर्वेषामेव पदार्थानां दर्शनार्थम् । किंच पुराजाः पुराजातः सोग्निः द्यावापृथिव्योरन्तर्मध्ये अन्तरिक्षे तस्मिन् ताजिह्वायेमे निय- मितवान् सर्वत्र तेजोयुक्तोवर्ततेइत्यर्थः । अपिच इच्छन् यजमानान् कामयमानोग्निः पूष- णस्य पूषेति पृथिवीनाम पार्थिवस्य लोकस्य वव्रिं रूपं पृश्निवर्णं अविदत् प्रायद्च्छत् । यद्वा मूर्धाभुवोभ्वतिनक्तमग्निस्ततः सूर्योजायतेप्रातरुद्यन्निति मंत्रान्तरे दर्शनादादित्यात्मना- ग्निः स्तूयते । कामयमानः सूर्यात्मनाग्निः सप्त संख्याकान् स्वसॄः रश्मीन् मध्वः समुद्रोद- कादुद्धृतवान् प्राप्तः अन्तरिक्षे विद्युदात्मना स्थित्वावृष्टिलक्षणं रूपं पृथिव्याः प्रायच्छ- ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३