मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ५, ऋक् ६

संहिता

स॒प्त म॒र्यादा॑ः क॒वय॑स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं॑हु॒रो गा॑त् ।
आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒ळे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ॥

पदपाठः

स॒प्त । म॒र्यादाः॑ । क॒वयः॑ । त॒त॒क्षुः॒ । तासा॑म् । एका॑म् । इत् । अ॒भि । अं॒हु॒रः । गा॒त् ।
आ॒योः । ह॒ । स्क॒म्भः । उ॒प॒ऽमस्य॑ । नी॒ळे । प॒थाम् । वि॒ऽस॒र्गे । ध॒रुणे॑षु । त॒स्थौ॒ ॥

सायणभाष्यम्

कवयोमेधाविनऋषयः सप्तमर्यादाः कामजेभ्यः क्रोधजेभ्यश्चोत्थिताः । पानमक्षाःस्त्रियो- मृगया दंडः पारुष्यमन्यदूषणमिति सप्तमर्यादाः । यद्वा स्तेयं गुरुतल्पारोहणं ब्रह्महत्यां सुरापानं दुष्कृतकर्मणः पुनःपुनः सेवां पातकेनृतोद्यमिति निरुक्तेनिर्दिष्टाः । सप्तमर्यादा- अवस्थिताः ततक्षुः तक्षतिः करोतिकर्मा सुष्ठु लंघनीयाश्चक्रुः त्यक्तवन्तइत्यर्थः । तासां मर्यादानां एकामित् एकामेव अंहुरः पापवान् पुरुषः अभिगात् अभिगच्छति यस्त्वेवं करोति सपापवान् भवतीत्यर्थः । किंच आयोः तस्य मनुष्यस्य स्कंभः स्कंभयिता निरो- धकोग्निः उपमस्य समीपभूतस्य आयोर्नीळे स्थाने पथां आदित्यरूपस्य स्वस्य रश्मीनां विसर्गे विसर्जनस्थानेन्तरिक्षमध्ये वर्तमाने धरुणेषूदकेषु तस्थौ विद्युदात्मना तिष्ठति अनेन लोकत्रयवर्तित्वमिति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३