मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६, ऋक् २

संहिता

यो भा॒नुभि॑र्वि॒भावा॑ वि॒भात्य॒ग्निर्दे॒वेभि॑रृ॒तावाज॑स्रः ।
आ यो वि॒वाय॑ स॒ख्या सखि॒भ्योऽप॑रिह्वृतो॒ अत्यो॒ न सप्ति॑ः ॥

पदपाठः

यः । भा॒नुऽभिः॑ । वि॒भाऽवा॑ । वि॒ऽभाति॑ । अ॒ग्निः । दे॒वेभिः॑ । ऋ॒तऽवा॑ । अज॑स्रः ।
आ । यः । वि॒वाय॑ । स॒ख्या । सखि॑ऽभ्यः । अप॑रिऽह्वृतः । अत्यः॑ । न । सप्तिः॑ ॥

सायणभाष्यम्

ऋतावा सत्यवान् यज्ञवान्वा अजस्रः अनुपक्षीणः अहिंसितोवा केनचिदनभिभूतइत्य र्थः । विभावा दीप्तिमान् योग्निः देवेभिर्देवैर्द्योतमानैः भानुभिस्तेजोभिर्विभाति विविधंदी- प्यते । किंच योग्निः सख्या सख्यानि सखिभिः कर्तव्यानि कर्माणि हविरादीनि कतुमिति शेषः सखिभ्यः सखिभूतानां यजमानानामर्थाय अपरिहृतः अपरिहिंसितः अपरिश्रान्तइत्य र्थः आविवाय आभिमुख्येन गच्छति । तत्र दृष्टान्तः—सप्तिः सदासर्पणइत्यर्थः अत्योन यथा सततगमनसमर्थोश्वः अपरिश्रान्तोगच्छति तद्वत् सोयमग्निरस्माभिर्यागार्थमाहूतइति पूर्ववत् योज्यं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः