मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६, ऋक् ४

संहिता

शू॒षेभि॑र्वृ॒धो जु॑षा॒णो अ॒र्कैर्दे॒वाँ अच्छा॑ रघु॒पत्वा॑ जिगाति ।
म॒न्द्रो होता॒ स जु॒ह्वा॒३॒॑ यजि॑ष्ठ॒ः सम्मि॑श्लो अ॒ग्निरा जि॑घर्ति दे॒वान् ॥

पदपाठः

शू॒षेभिः॑ । वृ॒धः । जु॒षा॒णः । अ॒र्कैः । दे॒वान् । अच्छ॑ । र॒घु॒ऽपत्वा॑ । जि॒गा॒ति॒ ।
म॒न्द्रः । होता॑ । सः । जु॒ह्वा॑ । यजि॑ष्ठः । सम्ऽमि॑श्लः । अ॒ग्निः । आ । जि॒घ॒र्ति॒ । दे॒वान् ॥

सायणभाष्यम्

वृधः वर्धितोग्निः शूषेभिर्हविर्लक्षणैर्बलैः बलनिमित्तैर्हविर्भिरित्यर्थः अर्कैः स्तोत्रैश्च जुषा- णः सेव्यमानः सन् देवानिन्द्रादीनच्छाप्तुं रघुपत्वा लघुपतनः शीघ्रगामी जिगाति । गत्वा- च मन्द्रः स्तुत्यः होता देवानामाह्वाता होमनिष्पादकोवा जुह्वा यजिष्ठः यष्टृतमः संमि- श्लः सगुणैर्देवैर्वासंप्रयुक्तः सोग्निर्देवान्प्रति हविराजिघर्ति आहारयति देवेभ्योहविर्ददातीत्य- र्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः