मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६, ऋक् ५

संहिता

तमु॒स्रामिन्द्रं॒ न रेज॑मानम॒ग्निं गी॒र्भिर्नमो॑भि॒रा कृ॑णुध्वम् ।
आ यं विप्रा॑सो म॒तिभि॑र्गृ॒णन्ति॑ जा॒तवे॑दसं जु॒ह्वं॑ स॒हाना॑म् ॥

पदपाठः

तम् । उ॒स्राम् । इन्द्र॑म् । न । रेज॑मानम् । अ॒ग्निम् । गीः॒ऽभिः । नमः॑ऽभिः । आ । कृ॒णु॒ध्व॒म् ।
आ । यम् । विप्रा॑सः । म॒तिऽभिः॑ । गृ॒णन्ति॑ । जा॒तऽवे॑दसम् । जु॒ह्व॑म् । स॒हाना॑म् ॥

सायणभाष्यम्

हे ऋत्विजोयूयं उस्रां भोगानामुत्स्राविणं दातारं रेजमानं ज्वालात्मना कंपमानं तम- ग्निं इन्द्रंन इन्द्रमिव गीर्भिः स्तुतिभिर्नमोभिर्हविर्भिश्च आकृणुध्वं अस्मदभिमुखं कुरुत । विप्रासोमेधाविनः स्तोतारः सहानां शत्रुबलाद्यभिभवितॄणां देवानां जुह्वमाह्वातारं जात- वेदसं जातधनं जातप्रज्ञंवा यमग्निं आगृणन्ति आदरेण स्तुवन्ति तमाकृणुध्वमिति पूर्वेण संबन्धः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः