मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ६, ऋक् ६

संहिता

सं यस्मि॒न्विश्वा॒ वसू॑नि ज॒ग्मुर्वाजे॒ नाश्वा॒ः सप्ती॑वन्त॒ एवै॑ः ।
अ॒स्मे ऊ॒तीरिन्द्र॑वाततमा अर्वाची॒ना अ॑ग्न॒ आ कृ॑णुष्व ॥

पदपाठः

सम् । यस्मि॑न् । विश्वा॑ । वसू॑नि । ज॒ग्मुः । वाजे॑ । न । अश्वाः॑ । सप्ति॑ऽवन्तः । एवैः॑ ।
अ॒स्मे इति॑ । ऊ॒तीः । इन्द्र॑वातऽतमाः । अ॒र्वा॒ची॒नाः । अ॒ग्ने॒ । आ । कृ॒णु॒ष्व॒ ॥

सायणभाष्यम्

हे अग्ने यस्मिन् त्वयि विश्वा विश्वानि वसूनि धनानि संजग्मुः स्वत्वेन संगतानि भवन्ति । तत्र दृष्टान्तः—एवैर्गमनैः सप्तीवन्तः सर्पवन्तः शीघ्रगमनशीलाः समर्थाः अश्वाः वाजे न यथा संग्रामे संगतास्तद्वत् । हेअग्ने सत्वं इन्द्रवाततमाः इन्द्रेणाभिगताः ऊतीः रक्षाः अस्मे अस्मासु अर्वाचीनाः अभिमुखीः आकृणुष्व आदरेण कुरु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः