मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७, ऋक् १

संहिता

स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव ।
सचे॑महि॒ तव॑ दस्म प्रके॒तैरु॑रु॒ष्या ण॑ उ॒रुभि॑र्देव॒ शंसै॑ः ॥

पदपाठः

स्व॒स्ति । नः॒ । दि॒वः । अ॒ग्ने॒ । पृ॒थि॒व्याः । वि॒श्वऽआ॑युः । धे॒हि॒ । य॒जथा॑य । दे॒व॒ ।
सचे॑महि । तव॑ । द॒स्म॒ । प्र॒ऽके॒तैः । उ॒रु॒ष्य । नः॒ । उ॒रुऽभिः॑ । दे॒व॒ । शंसैः॑ ॥

सायणभाष्यम्

हे देव दानादिगुणविशिष्टाग्ने त्वं दिवः पृथिव्याः द्यावा पृथिव्योः सकाशात् नोस्मभ्यं विश्वायुः सर्वान्नं स्वस्ति पुत्रादि यजथाय देवयागार्थं धेहि प्रयच्छ सर्वोपद्रवरहिताः सर्वा न्नं स्वस्ति पुत्रादि यजथाय देवयागार्थं धेहि प्रयच्छ सर्वोपद्रवरहिताः सर्वान्न पुत्रयुक्ताश्च सन्तोवयं यथा यज्वानोभवेम तथास्मान् कुर्विति वाक्यशेषः । अपिच वयं सचेमहि हे दस्म दर्शनीय देवाग्ने उरुभिर्बहुभिः शंसैः शंसनीयैस्तवसंबन्धिभिः प्रकेतैः पालनोपायप्र- ज्ञानैः नोस्मानुरुष्य रक्ष ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः