मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७, ऋक् २

संहिता

इ॒मा अ॑ग्ने म॒तय॒स्तुभ्यं॑ जा॒ता गोभि॒रश्वै॑र॒भि गृ॑णन्ति॒ राधः॑ ।
य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ड्वसो॒ दधा॑नो म॒तिभि॑ः सुजात ॥

पदपाठः

इ॒माः । अ॒ग्ने॒ । म॒तयः॑ । तुभ्य॑म् । जा॒ताः । गोभिः॑ । अश्वैः॑ । अ॒भि । गृ॒ण॒न्ति॒ । राधः॑ ।
य॒दा । ते॒ । मर्तः॑ । अनु॑ । भोग॑म् । आन॑ट् । वसो॒ इति॑ । दधा॑नः । म॒तिऽभिः॑ । सु॒ऽजा॒त॒ ॥

सायणभाष्यम्

हे अग्ने इमा ईदृश्यः मतयः स्तुतयः तुभ्यं त्वदर्थं जाताः अस्मदादिस्तोतृमुखात् उत्प न्ना उच्चारिताइत्यर्थः गोभिरश्वैश्च सहितं राधः त्वया दीयमानं हिरण्यादिकं धनं अभिगृ- णन्ति अभिष्टुवन्ति । अस्मत्स्तुत्यनुरूपान्नमस्मभ्यं त्वया दत्तमिति प्रशंसन्ति यदा मर्तोस्म- दादिकोमनुष्यः ते त्वया दीयमानं भोगं भोगार्हं धनं अन्वानट् प्राप्नोति लभते तदा हे वसो प्रशस्य वसुमन् यद्वा स्वेन तेजसा सर्वस्याच्छादयितः हे सुजात शोभनकर्मार्थमुत्प- न्नाग्ने त्वं दधानोस्मभ्यं धनं प्रयच्छन् मतिभिरस्मदीयाभिः स्तूयसे इतिशेषः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः