मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७, ऋक् ४

संहिता

सि॒ध्रा अ॑ग्ने॒ धियो॑ अ॒स्मे सनु॑त्री॒र्यं त्राय॑से॒ दम॒ आ नित्य॑होता ।
ऋ॒तावा॒ स रो॒हिद॑श्वः पुरु॒क्षुर्द्युभि॑रस्मा॒ अह॑भिर्वा॒मम॑स्तु ॥

पदपाठः

सि॒ध्राः । अ॒ग्ने॒ । धियः॑ । अ॒स्मे इति॑ । सनु॑त्रीः । यम् । त्राय॑से । दमे॑ । आ । नित्य॑ऽहोता ।
ऋ॒तऽवा॑ । सः । रो॒हित्ऽअ॑श्वः । पु॒रु॒ऽक्षुः । द्युऽभिः॑ । अ॒स्मै॒ । अह॑ऽभिः । वा॒मम् । अ॒स्तु॒ ॥

सायणभाष्यम्

हे अग्ने सनुत्रीः संभत्र्यः अस्मे अस्माकं संबंधि़न्यः धियः स्तुतयः सिध्राः सिद्धानिष्प- न्नाः त्वदर्थमस्माभिः कृताइत्यर्थः दमआ अस्मद्यज्ञगृहे मर्यादतयावस्थितस्त्वं नित्यहोता सततं होमनिष्पादकोदेवानामाह्वातावासन् यंत्रायसे कर्मवैगुण्यात् रक्षसि सोहं त्वत्प्रसा- दात् त्वत्सायुज्यं गतः सन् ऋतवा यज्ञवान् सत्यवान्वा स्यामितिशेषः । रोहिदश्वः रोहि- त्संज्ञकाश्वः पुरुक्षुः बह्वन्नश्चस्याम् । किंच अस्मै ईदृग्भूताय तुभ्यं द्युभिर्दीप्तेषु अहभिरहःसु दिवसेषु वामं वननीयं हविरस्तु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः