मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ७, ऋक् ५

संहिता

द्युभि॑र्हि॒तं मि॒त्रमि॑व प्र॒योगं॑ प्र॒त्नमृ॒त्विज॑मध्व॒रस्य॑ जा॒रम् ।
बा॒हुभ्या॑म॒ग्निमा॒यवो॑ऽजनन्त वि॒क्षु होता॑रं॒ न्य॑सादयन्त ॥

पदपाठः

द्युऽभिः॑ । हि॒तम् । मि॒त्रम्ऽइ॑व । प्र॒ऽयोग॑म् । प्र॒त्नम् । ऋ॒त्विज॑म् । अ॒ध्व॒रस्य॑ । जा॒रम् ।
बा॒हुऽभ्या॑म् । अ॒ग्निम् । आ॒यवः॑ । अ॒ज॒न॒न्त॒ । वि॒क्षु । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥

सायणभाष्यम्

द्युभिर्हितं दीप्तैराहितं मित्रमिवस्निग्धमिव प्रयोगं प्रयोक्तव्यं प्रत्नं पुराणं ऋत्विजं हो- तृसंज्ञकम् । अग्निर्वैदेवानांहोतासीदितिश्रुतेः । अध्वरस्य यज्ञस्य जारं समापयितारं एवंभूत- मग्निं आयवोयजमानाः मनुष्याः बाहुभ्यामजनन्त जनितवन्तः । किंच विक्षु विशोमनुष्याः तदाकारेषु देवेष्वित्यर्थः होतारं आह्वातारं न्यसादयन्त नियमेन सादितवन्तः देवानां यागार्थं निरूपितवन्तइत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः