भवा॑ नो अग्नेऽवि॒तोत गो॒पा भवा॑ वय॒स्कृदु॒त नो॑ वयो॒धाः ।
रास्वा॑ च नः सुमहो ह॒व्यदा॑तिं॒ त्रास्वो॒त न॑स्त॒न्वो॒३॒॑ अप्र॑युच्छन् ॥
भव॑ । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । उ॒त । गो॒पाः । भव॑ । व॒यः॒ऽकृत् । उ॒त । नः॒ । व॒यः॒ऽधाः ।
रास्व॑ । च॒ । नः॒ । सु॒ऽम॒हः । ह॒व्यऽदा॑तिम् । त्रास्व॑ । उ॒त । नः॒ । त॒न्वः॑ । अप्र॑ऽयुच्छन् ॥
हेअग्ने त्वं नोस्माकं अवितादृष्टभयेभ्यो रक्षको भव भूयाः । उतापिच गोपा अदृष्ट- भयेभ्योगोप्ता रक्षकोभव । उतापिच वयस्कृत् अन्नस्य कर्ता भव वयोधाः अन्नस्य दाता भव । हेसुमहः सुष्ठु पूजनीयाग्ने त्वं स्वभूतां हव्यदातिम् हविषोदातिं नोस्मभ्यं रास्वच प्रयच्छ । उतापिच नोस्माकं स्वभूतास्तन्वः शरीराणि अप्रयुच्छन् अप्रमाद्यन् त्रास्व पालय ॥ ७ ॥
प्रकेतुनेतिनवर्चं अष्टमं सूक्तं त्रैष्टुभं त्वष्टृपुत्रस्त्रिशिरानामऋषिः आदितः षडाग्नेय्यः तत- स्तिस्रः ऎन्द्भ्यः । तथाचानुक्रान्तं—प्रकेतुनानवत्रिशिरास्त्वाष्ट्रस्तृचोन्त्यवोद्रइति । आदितः ष्णां प्रातरनुवाकाश्विनशस्त्रयोराग्नेयक्रतावुक्तोविनियोगः ।