मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८, ऋक् २

संहिता

मु॒मोद॒ गर्भो॑ वृष॒भः क॒कुद्मा॑नस्रे॒मा व॒त्सः शिमी॑वाँ अरावीत् ।
स दे॒वता॒त्युद्य॑तानि कृ॒ण्वन्त्स्वेषु॒ क्षये॑षु प्रथ॒मो जि॑गाति ॥

पदपाठः

मु॒मोद॑ । गर्भः॑ । वृ॒ष॒भः । क॒कुत्ऽमा॑न् । अ॒स्रे॒मा । व॒त्सः । शिमी॑ऽवान् । अ॒रा॒वी॒त् ।
सः । दे॒वऽता॑ति । उत्ऽय॑तानि । कृ॒ण्वन् । स्वेषु॑ । क्षये॑षु । प्र॒थ॒मः । जि॒गा॒ति॒ ॥

सायणभाष्यम्

गर्भः द्यावापृथिव्योरन्तर्गतः वृषभः कामानां वर्षिताग्निः ककुद्मान् उन्नततेजस्कः मुमोद मोदते । किंच अस्रेमा प्रशस्यनामैतत् प्रशस्तः वत्सः नक्तोषसोर्वत्सभूतः सायं- प्रातराहुत्युपजीवनात् शिमीवान् हविर्वहनदेवाह्वानादिकर्मवान् अग्निः अरावीत् देवा- ह्वानादिशब्दं करोति सोग्निः देवताति यज्ञे उद्यतानि उद्यमान्युत्साहानि कर्माणि कृण्वन् स्वेषु क्षयेषु आत्मीयेष्वाहवनीयादिस्थानेषु स्थितः प्रथमोदेवानां स्थानेषु मुख्यः जिगाति गच्छति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः