मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८, ऋक् ३

संहिता

आ यो मू॒र्धानं॑ पि॒त्रोरर॑ब्ध॒ न्य॑ध्व॒रे द॑धिरे॒ सूरो॒ अर्ण॑ः ।
अस्य॒ पत्म॒न्नरु॑षी॒रश्व॑बुध्ना ऋ॒तस्य॒ योनौ॑ त॒न्वो॑ जुषन्त ॥

पदपाठः

आ । यः । मू॒र्धान॑म् । पि॒त्रोः । अर॑ब्ध । नि । अ॒ध्व॒रे । द॒धि॒रे॒ । सूरः॑ । अर्णः॑ ।
अस्य॑ । पत्म॑न् । अरु॑षीः । अश्व॑ऽबुध्नाः । ऋ॒तस्य॑ । योनौ॑ । त॒न्वः॑ । जु॒ष॒न्त॒ ॥

सायणभाष्यम्

योग्निः पित्रोः मातापितृभूतयोर्द्यावापृथिव्योः मूर्धान् आअरब्ध स्वतेजोभिरारभते यद्वा मातापितृभूतयोररण्योर्मूर्धानं शिरोवत् प्रधानभूतं मथनप्रदेशं आङीषदर्थे आरब्ध- ईषद्धिनस्ति निर्मथनकालेपि दाहेन दग्धुं समर्थः सूरः सुवीर्यस्याग्नेः अर्णः गमनशीलं तेजः अध्वरे यज्ञे निदधिरे यष्टारोनियमेन धारयन्ति अस्याग्नेः पत्मन् पतने अरुषीरा- रोचमानाः ऋतस्य यज्ञस्य योनौ स्थाने अश्वबुध्नाः व्याप्तमूलाः अशनबन्धनावा हवि- राहारान्विताइत्यर्थः तन्वः त्वदीयास्तनूर्जुषन्त कवयः सेवन्ते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः