मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८, ऋक् ६

संहिता

भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒ः सच॑से शि॒वाभि॑ः ।
दि॒वि मू॒र्धानं॑ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ॥

पदपाठः

भुवः॑ । य॒ज्ञस्य॑ । रज॑सः । च॒ । ने॒ता । यत्र॑ । नि॒युत्ऽभिः॑ । सच॑से । शि॒वाभिः॑ ।
दि॒वि । मू॒र्धान॑म् । द॒धि॒षे॒ । स्वः॒ऽसाम् । जि॒ह्वाम् । अ॒ग्ने॒ । च॒कृ॒षे॒ । ह॒व्य॒ऽवाह॑म् ॥

सायणभाष्यम्

हे अग्ने त्वं यत्र यस्मिन्नन्तरिक्षे शिवाभिः कल्याणीभिर्नियुद्भिः नियुत्संज्ञकाभिरश्व- जातिभिः संबद्धं वायुं सचसे संगच्छसे तस्मिन्नन्तरिक्षे यज्ञस्य रजसश्चोदकस्यच नेता प्रापयिता भुदोभवसि । अग्निर्वा इतोवृष्टिमुदीरयतीतिश्रुतेः । किंच दिवि द्युलोके मूर्धानं शिरोवत्प्रधानभूतं स्वर्षां सर्वस्य संभक्तारमादित्यं दधिषे हविर्वहनद्वारेण धारयसि । हेअग्ने त्वं जिह्वां ज्वालां हव्यवाहं हविषोवोढ्रीं चकृषे करोषि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः