मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८, ऋक् ८

संहिता

स पित्र्या॒ण्यायु॑धानि वि॒द्वानिन्द्रे॑षित आ॒प्त्यो अ॒भ्य॑युध्यत् ।
त्रि॒शी॒र्षाणं॑ स॒प्तर॑श्मिं जघ॒न्वान्त्वा॒ष्ट्रस्य॑ चि॒न्निः स॑सृजे त्रि॒तो गाः ॥

पदपाठः

सः । पित्र्या॑णि । आयु॑धानि । वि॒द्वान् । इन्द्र॑ऽइषितः । आ॒प्त्यः । अ॒भि । अ॒यु॒ध्य॒त् ।
त्रि॒ऽशी॒र्षाण॑म् । स॒प्तऽर॑श्मिम् । ज॒घ॒न्वान् । त्वा॒ष्ट्रस्य॑ । चि॒त् । निः । स॒सृ॒जे॒ । त्रि॒तः । गाः ॥

सायणभाष्यम्

आप्त्यः आप्त्यस्य पुत्रः अपां पुत्रोवा तकारोपजनश्छान्दसः सत्रितः पित्र्याणि स्वपि- तृसबन्धीन्यायुधानि विद्वान् जानन् इन्द्रेषितः त्रिशिरसामयासह युद्धार्थमिन्द्रेण प्रेषितः सन् अभ्ययुध्यत् आभिमुख्येन युद्धवान् । तदनन्तरं सप्तरश्मिं शत्रुनियमनार्थं सप्तप्रग्रह- हस्तं यद्वा सप्तरश्मिरादित्यः तत्सदृशं त्रिशीर्षाणं त्रिशिरस्कं मांजघन्वान् हतवान् मूर्छितं कृतवानित्यर्थः । किंच त्रितः त्वाष्ट्रस्य चित् त्वष्टृपुत्रस्य ममापि गाः पशून् निःससृजे विसृष्टवान् अपहृतवानित्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः