मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८, ऋक् ९

संहिता

भूरीदिन्द्र॑ उ॒दिन॑क्षन्त॒मोजोऽवा॑भिन॒त्सत्प॑ति॒र्मन्य॑मानम् ।
त्वा॒ष्ट्रस्य॑ चिद्वि॒श्वरू॑पस्य॒ गोना॑माचक्रा॒णस्त्रीणि॑ शी॒र्षा परा॑ वर्क् ॥

पदपाठः

भूरि॑ । इत् । इन्द्रः॑ । उ॒त्ऽइन॑क्षन्तम् । ओजः॑ । अव॑ । अ॒भि॒न॒त् । सत्ऽप॑तिः । मन्य॑मानम् ।
त्वा॒ष्ट्रस्य॑ । चि॒त् । वि॒श्वऽरू॑पस्य । गोना॑म् । आ॒ऽच॒क्रा॒णः । त्रीणि॑ । शी॒र्षा । परा॑ । व॒र्गिति॑ वर्क् ॥

सायणभाष्यम्

सत्पतिः सतां पालकः इन्द्रः भूरीत् बह्वेव पूर्वतुल्यमतिरिक्तंवा ओजोबलं उदिनक्षन्तं व्याप्नुवन्तं मन्यमानं शूरमित्यात्मानं चिंतयन्तं यद्वा मन्यतिर्दीप्तिकर्मा क्रोधकर्मावा दीप्य- मानं क्रुध्यन्तंवा त्वष्टृपुत्रं मां अवाभिनत् वज्रेण विदारितवान् । विदार्यत्वाष्ट्रस्यचित् त्व- ष्टृपुत्रस्यापि गोनां गवां स्वामिनमितिशेषः विश्वरूपस्य मम त्रीणि शीर्षा शीर्षाणि आचक्राणः आसमन्तात् शब्दं कुर्वन् परावर्क् पराङ्मुखस्य वृक्णवान् छिन्नवानित्यर्थः । ईदृशं भाविवस्तु विश्वरूपः स्वप्नांते अनेन तृचेन दृष्टवान् ॥ ९ ॥

आपोहिष्ठेति नवमं सूक्तं अंबरीषस्य राज्ञः पुत्रःसिंधुद्वीपः ऋषिः त्वष्टृपुत्रस्त्रि- शिरावा इदमापइत्यादिकेद्वे अनुष्टुभौ ईशानाइति वर्धमाना आपः पृणीतेति प्रतिष्ठा शिष्टागायत्र्यः आपोदेवता । तथाचानुक्रान्तं—आपोहिसिन्धुद्वीपोवांबरीषआपं गायत्रं द्भ्यनुष्टुवन्तं पंचमी वर्धमाना सप्तमी प्रतिष्ठेति । गतः सूक्तविनियोगः । आग्निमारुते आपोहिष्ठेत्याद्यास्तिस्रः । सूत्रितंच—आपोहिष्ठेति तिस्रोवियतमपउपस्पृशन्निति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः