मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९, ऋक् १

संहिता

आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ॥

पदपाठः

आपः॑ । हि । स्थ । म॒यः॒ऽभुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ।
म॒हे । रणा॑य । चक्ष॑से ॥

सायणभाष्यम्

हियस्मात् कारणात् आपः यायूयं मयोभुवः सुखस्य भावयित्र्यः स्थ भवथ तास्ता- दृश्योयूयं नोस्मान् ऊर्जे अन्नाय दधातन धत्त अन्नप्राप्तियोग्यानस्मान् कुरुत अन्नमस्मभ्यं दत्तेत्यर्थः । महे महते रणाय रमणीयाय चक्षसे दर्शनाय सम्यक् ज्ञानायच धत्त अस्मान् सम्यक् ज्ञानं प्रतियोग्यान् कुरुतेत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः