मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९, ऋक् २

संहिता

यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ ।
उ॒श॒तीरि॑व मा॒तरः॑ ॥

पदपाठः

यः । वः॒ । शि॒वऽत॑मः । रसः॑ । तस्य॑ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ ।
उ॒श॒तीःऽइ॑व । मा॒तरः॑ ॥

सायणभाष्यम्

हेआपः वोयुष्माकं स्वभूतोयोरसः शिवतमः सुखतमः इहास्मिन् लोके तस्य तं रसं नोस्मान् भाजयत सेवयत उपयोजयतेत्यर्थः । तत्र दृष्टान्तः—उशतीरिव उशत्यइव पुत्र- समृद्धिं कामयमाना मातरः स्तन्यं रसं यथा भाजयन्ति प्रापयन्ति तद्वत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः