मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९, ऋक् ३

संहिता

तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥

पदपाठः

तस्मै॑ । अर॑म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ ।
आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥

सायणभाष्यम्

हेआपोयूयं यस्य पापस्य क्षयाय विनाशाय अस्मान् जिन्वथ प्रीणयथ तस्मै तादृशाय पापक्षयाय अरं क्षिप्रं वोयुष्मान् गमाम गमयाम वयं शिरसि प्रक्षिपामेत्यर्थः । यद्वा य- स्यान्नस्य क्षयाय निवासार्थं यूयमोषधीर्जिन्वथ तर्पयथ तस्मै तदन्नमुद्दिश्य वयं अरं अलं पर्याप्तं यथा भवति तथा वोयुष्मान् गमाम गच्छाम । किंच हे आपः नोस्मान् जनयथ च पुत्रपौत्रादिजनने प्रयोजयतेत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः