मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ९, ऋक् ५

संहिता

ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम् ।
अ॒पो या॑चामि भेष॒जम् ॥

पदपाठः

ईशा॑नाः । वार्या॑णाम् । क्षय॑न्तीः । च॒र्ष॒णी॒नाम् ।
अ॒पः । या॒चा॒मि॒ । भे॒ष॒जम् ॥

सायणभाष्यम्

वार्याणां वारिप्रभवानां व्रीहियवादीनां यद्वा वरणीयानां धनानां ईशाना ईश्वराश्चर्ष- णीनां मनुष्याणां क्षयन्तीः निवासयित्रीः अपउदकानि भेषजं सुखनामैतत् पापापनोदनं सुखं याचामि अहं प्रार्थये ॥ ५ ॥

अप्सुमे सोमोअब्रवीदित्यादिकाश्चतस्रऋचः प्रथमाष्टके द्वितीयाध्याये विनियोगपुरः सरं व्याख्याताः ॥ ६ ॥ ७ ॥ ८ ॥ ९ ॥

ओचिदितिचतुर्दशर्चं दशमं सूक्तं अत्रानुक्रम्यते—ओचित्षळूनावैवस्वतयोर्यमयम्योः सं- वादः षष्ठ्ययुग्भिर्यमीमिथुनार्थं यमंप्रोवाच स तां नवमीयुग्भिरनिच्छन् प्रत्याचष्टइति । ततः षष्ठ्यां प्रथमातृतीयाद्ययुक्षु विवस्वतः पुत्री यमी ऋषिः यमोदेवता । यस्यवाक्यं सऋषिः यातेनोच्यते सादेवतेति न्यायात् । तथा नवम्यां द्वितीयाचतुर्थीप्रभृतिषु युक्षु वैवस्वतोयमऋषिः यमी देवता । अनादेशपरिभाषयात्रिष्टुप् छन्दः गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः