मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०, ऋक् १

संहिता

ओ चि॒त्सखा॑यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् ।
पि॒तुर्नपा॑त॒मा द॑धीत वे॒धा अधि॒ क्षमि॑ प्रत॒रं दीध्या॑नः ॥

पदपाठः

ओ इति॑ । चि॒त् । सखा॑यम् । स॒ख्या । व॒वृ॒त्या॒म् । ति॒रः । पु॒रु । चि॒त् । अ॒र्ण॒वम् । ज॒ग॒न्वान् ।
पि॒तुः । नपा॑तम् । आ । द॒धी॒त॒ । वे॒धाः । अधि॑ । क्षमि॑ । प्र॒ऽत॒रम् । दीध्या॑नः ॥

सायणभाष्यम्

अत्रास्मिन्सूक्ते वैवस्वतयोर्यमयम्योः संवादउच्यते—अस्यामृचि यमं प्रति यमीप्रोवाच । तिरः अन्तर्हितं अप्रकाशमानं निर्जनप्रदेशमित्यर्थः पुरुचित् बह्वपि विस्तीर्णंच अर्णवं समुद्रैकदेशं अवान्तरद्वीपं जगन्वान् गतवती यमी चिदिति पूजार्थे पूजितमिष्टं श्रेष्ठमि- त्यर्थः सखायं गर्भवासादारभ्य सखिभूतं यमं सख्या सख्याय स्त्रीपुरुषसंपर्कजनितगित्र- त्वाय ओववृत्यां आवर्तयामि आभिमुख्येन स्थित्वा लज्जां परित्यज्य त्वत्संभोगं करोमी- त्यर्थः । धर्मस्य त्वरिता गतिरिति न्यायेन कामस्य त्वरितत्वात् । अपिच पितुः आवयो- र्भविष्यतः पुत्रस्य पितृभूतस्य तवार्थाय अधिक्षमि अधि पृथिव्यां पृथिवीस्थानीये नभो- दरेइत्यर्थः प्रतरं प्रकृष्टं सर्वगुणोपेतमित्यर्थः । नपातं गर्भलक्षणमपत्यं वेधा विधाता प्रजा पतिः दीध्यानः आवयोरनुरूपस्य पुत्रस्य जननार्थं आवां ध्यायन् आदधीत प्रजापतिः । धातागर्भंदधातुतइत्युक्तत्वात् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः