मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०, ऋक् ५

संहिता

गर्भे॒ नु नौ॑ जनि॒ता दम्प॑ती कर्दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः ।
नकि॑रस्य॒ प्र मि॑नन्ति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी उ॒त द्यौः ॥

पदपाठः

गर्भे॑ । नु । नौ॒ । ज॒नि॒ता । दम्प॑ती॒ इति॒ दम्ऽप॑ती । कः॒ । दे॒वः । त्वष्टा॑ । स॒वि॒ता । वि॒श्वऽरू॑पः ।
नकिः॑ । अ॒स्य॒ । प्र । मि॒न॒न्ति॒ । व्र॒तानि॑ । वेद॑ । नौ॒ । अ॒स्य । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

त्वष्टा रूपाणां कर्ता सविता सर्वेषां शुभाशुभस्य प्रेरकः विश्वरूपः सर्वात्मकः देवो- दानादिगुणयुक्तः जनिता जनयिता प्रजापतिः गर्भेनु गर्भावस्थायामेव नौ आवां दंपती कः कृतवान् एकोदरे सहवासित्वात् । अस्य प्रजापतेः व्रतानि कर्माणि नकिः प्रमिनन्ति नकेचित् प्रहिंसन्ति नलोपयन्तीत्यर्थः । अतः कारणात् गर्भावस्थायामेवावयोः प्रजापति- कृते दंपतित्वे सति संभोगं कुरु इत्यर्थः । अपिच नौ आवयोः अस्येदं मातुरुदरे सहवा- सजनितं दंपतित्वं पृथिवी भूमिः वेद जानाति उतापिच द्यौर्द्युलोकोपि जानाति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः