मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०, ऋक् ६

संहिता

को अ॒स्य वे॑द प्रथ॒मस्याह्न॒ः क ईं॑ ददर्श॒ क इ॒ह प्र वो॑चत् ।
बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ॥

पदपाठः

कः । अ॒स्य । वे॒द॒ । प्र॒थ॒मस्य॑ । अह्नः॑ । कः । ई॒म् । द॒द॒र्श॒ । कः । इ॒ह । प्र । वो॒च॒त् ।
बृ॒हत् । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । कत् । ऊं॒ इति॑ । ब्र॒वः॒ । आ॒ह॒नः॒ । वीच्या॑ । नॄन् ॥

सायणभाष्यम्

प्रथमस्याह्नः संबन्धि अस्येदं अन्योन्यं संगमनं कोवेद जानाति । प्रथमेहनि यत् क्रि- यते तदनुमानमाश्रित्य नकश्चिदपि ज्ञातुं शक्नोतीत्यर्थः । इहास्मिन् प्रदेशे प्रत्यक्षतः कई- मिदं संगमनं ददर्श पश्यति कः प्रवोचत् प्रख्यापयति नकोपीत्यर्थः । मित्रस्य वरुणस्य मित्रावरुणयोः बृहत् महत् धाम स्थानं अहोरात्रं यदस्ति तत्र नॄन् मनुष्यान् वीच्या नर केण हे आहनः आहन्तः मर्यादयाहिंसितः स्वकृतशुभाशुभकर्मापेक्षया मनुष्यादिप्राणिनां नरकपातेन स्वर्गप्रापणेन निग्रहानुग्रहयोः कर्तरित्यर्थः एवंभूत हेयम त्वं कदुब्रवः किंवा ब्रवीषि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः