मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १०, ऋक् ७

संहिता

य॒मस्य॑ मा य॒म्यं१॒॑ काम॒ आग॑न्त्समा॒ने योनौ॑ सह॒शेय्या॑य ।
जा॒येव॒ पत्ये॑ त॒न्वं॑ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये॑व च॒क्रा ॥

पदपाठः

य॒मस्य॑ । मा॒ । य॒म्य॑म् । कामः॑ । आ । अ॒ग॒न् । स॒मा॒ने । योनौ॑ । स॒ह॒ऽशेय्या॑य ।
जा॒याऽइ॑व । पत्ये॑ । त॒न्व॑म् । रि॒रि॒च्या॒म् । वि । चि॒त् । वृ॒हे॒व॒ । रथ्या॑ऽइव । च॒क्रा ॥

सायणभाष्यम्

यमस्य तव कामोभिलाषः यम्यं यमीं मा मां प्रति आगन् आगच्छतु ममोपरि तव यमस्य संभोगेच्छा जायतामित्यर्थः । किमर्थं समाने योनौ एकस्मिन् स्थाने शय्याख्ये सह शेय्याय सहशयनार्थं तदनन्तरं पूर्णमनोरथासती जायेव पत्ये यथा भार्या पत्युरर्त्याय परया मीत्या विश्वस्ता सती रतिकामा स्वशरीरं प्रकाशयति एवं तन्वं आत्मीयं शरीरं रिरिच्यां विविच्यां त्वदर्थं प्रकाशयेयमित्यर्थः । किंच चिदिति पूरणः विवृहेव वृहउद्यमे धर्मार्थकामान् विविधमुद्यच्छावः । तत्र दृष्टान्तः—रय्येव चक्रा रथस्यावयवभूते चक्रे यथा रथं उद्यच्छतः तद्वत् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः