मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११, ऋक् २

संहिता

रप॑द्गन्ध॒र्वीरप्या॑ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु मे॒ मनः॑ ।
इ॒ष्टस्य॒ मध्ये॒ अदि॑ति॒र्नि धा॑तु नो॒ भ्राता॑ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो॑चति ॥

पदपाठः

रप॑त् । ग॒न्ध॒र्वीः । अप्या॑ । च॒ । योष॑णा । न॒दस्य॑ । ना॒दे । परि॑ । पा॒तु॒ । मे॒ । मनः॑ ।
इ॒ष्टस्य॑ । मध्ये॑ । अदि॑तिः । नि । धा॒तु॒ । नः॒ । भ्राता॑ । नः॒ । ज्ये॒ष्ठः । प्र॒थ॒मः । वि । वो॒च॒ति॒ ॥

सायणभाष्यम्

रपत् रपितवती अग्निगुणानुक्तवती गंधर्वी गंधर्वस्य स्त्री अप्या अद्भिः संस्कृतयोषणा आहुतिलक्षणा स्त्री च अग्निं तर्पितवतीति शेषः । नदस्य स्तोतृनामैतत् स्तोतुर्मे मम स्व- भूतं मनः नादे स्तुतिलक्षणे शब्दं परिपातु अग्निः सम्यग्रक्षतु अहं समाहितमनाभूत्वा स- म्यक् स्तुतिं करोमीत्यर्थः । किंच अदितिरखंडनीयोग्निः नोस्मान् इष्टस्य यागस्य मध्ये निधातु निदधातु नितरां स्थापयतु । प्रथमः सर्वेषां यजमानानां मुख्यः नोस्माकं ज्येष्ठो- भ्राता विवोचति विशेषेण ब्रवीति स्तौतीत्यर्थः । नाहमेव केवलोयजनशीलः किन्तु सर्व- एवास्मत्कुलीनोदेवयागप्रियइत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः