मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११, ऋक् ३

संहिता

सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा उ॑वास॒ मन॑वे॒ स्व॑र्वती ।
यदी॑मु॒शन्त॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता॑रं वि॒दथा॑य॒ जीज॑नन् ॥

पदपाठः

सो इति॑ । चि॒त् । नु । भ॒द्रा । क्षु॒ऽमती॑ । यश॑स्वती । उ॒षाः । उ॒वा॒स॒ । मन॑वे । स्वः॑ऽवती ।
यत् । ई॒म् । उ॒शन्त॑म् । उ॒श॒ताम् । अनु॑ । क्रतु॑म् । अ॒ग्निम् । होता॑रम् । वि॒दथा॑य । जीज॑नन् ॥

सायणभाष्यम्

भद्रा भजनीया क्षुमती शब्दवती यशस्वती अन्नवती कीर्तिमती वा सोचित् सैव प्रसिद्धा उषाः मनवे मनुष्याय यजमानाय स्वर्वती आदित्यवती सती नु क्षिप्रं उवास उषितवती उदितवतीत्यर्थः । कदोदितवती उच्यते—यद्यदा उशन्तं स्तुतिं हविश्च काम- यमानं उशतां यष्टुं कामयमानानां संबन्धिनं होतारं देवानामाह्वातारं होमनिष्पादकं वा ईमेनमग्निं अनुक्रतुं स्तुतिकर्मणः पश्चात् विदथाय यजनीयाय यज्ञार्थं जीजनन् ऋत्विग्यजमानाः जनयन्तीत्यर्थः । तदोदितवतीतिसंबन्धः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः