मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११, ऋक् ५

संहिता

सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः ।
विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्यं१॒॑ वाजं॑ सस॒वाँ उ॑प॒यासि॒ भूरि॑भिः ॥

पदपाठः

सदा॑ । अ॒सि॒ । र॒ण्वः । यव॑साऽइव । पुष्य॑ते । होत्रा॑भिः । अ॒ग्ने॒ । मनु॑षः । सु॒ऽअ॒ध्व॒रः ।
विप्र॑स्य । वा॒ । यत् । श॒श॒मा॒नः । उ॒क्थ्य॑म् । वाज॑म् । स॒स॒ऽवान् । उ॒प॒ऽयासि॑ । भूरि॑ऽभिः ॥

सायणभाष्यम्

हे अग्ने त्वं सदा सततं रण्वोसि रमणीयोभवसि । तत्र दृष्टान्तः—युवसे वपुष्यते यथा यवसानि तृणानि स्वपुष्टिं कुर्वते हस्त्यश्वगोमहिषादिचतुष्पदाय सर्वदा रमणीयानि भवन्ति तद्वत् । अपिच हे अग्ने मनुषोमनुष्यस्य स्वभूतैः होत्राभिः होत्रेति यज्ञनामैतत् यज्ञैः स्वध्वरः शोभनयज्ञोभवेति शेषः विप्रस्य वा स्तोतुर्वा यत् यस्य यजमानस्य वा स्वभूत उक्थ्यं स्तोत्रं शशमानः प्रशंसन् वाजं हविर्लक्षणमन्नं ससवान् संभजमानश्च भूरि- भिर्बहुभिःदेवैः सह् उपयासि उपगच्छसि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः