मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११, ऋक् ६

संहिता

उदी॑रय पि॒तरा॑ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति ।
विव॑क्ति॒ वह्नि॑ः स्वप॒स्यते॑ म॒खस्त॑वि॒ष्यते॒ असु॑रो॒ वेप॑ते म॒ती ॥

पदपाठः

उत् । ई॒र॒य॒ । पि॒तरा॑ । जा॒रः । आ । भग॑म् । इय॑क्षति । ह॒र्य॒तः । हृ॒त्तः । इ॒ष्य॒ति॒ ।
विव॑क्ति । वह्निः॑ । सु॒ऽअ॒प॒स्यते॑ । म॒खः । त॒वि॒ष्यते॑ । असु॑रः । वेप॑ते । म॒ती ॥

सायणभाष्यम्

हे अग्ने त्वदीयं ज्योतिः पितरा पितरौ स्र्वप्राणिनां मातापितृभूते द्यावापृथिव्यौ प्रति उदीरय उद्गमय । तत्र दृष्टान्तः—आकारउपमार्थे रात्रेर्नक्षत्रादिदीप्तीनां च जरयित्रुत्वाज्जारआदित्यः सयथा द्यावापृथिव्यौ प्रति भगं भजनीयं स्वयं ज्योतिः उद्गमय ति तद्वत् हर्यतः यागं कामयमानान् प्रति इयक्षति यजमानोयष्टुमिच्छति हृतः हृदयेनेव इष्यति इषिरयं गत्यर्थः शुद्धोप्युपसर्गपूर्वोद्रष्टव्यः अधीष्यति देवान् यष्टुमधिगच्छति विव क्ति विवक्षति शस्त्रलक्षणाः स्तुतीर्वक्तुमिच्छति च वह्निर्वोढ स्तुतीनां देवान् प्रति प्राप- यिता होता च स्वपस्यते शोभनमात्मीयं कर्म कर्तुमिच्छति । मखः यज्ञनामैतत् अत्र तत् प्रयोक्ताध्वर्युरुच्यते सच तद्विष्यते तविषिर्वृध्यर्थः सचात्रान्तर्णीतसनर्थश्चद्रष्टव्यः तुतुविषति स्तोत्रृलक्षणाः स्तुतीः वर्धयितुमिच्छतीत्यर्थः । असुरः प्राणवान् प्रज्ञावान्वा ब्रह्मेति शेषः मती मत्या बुध्या वेपते कर्मवैगुण्यात् बिभ्यत् कंपते । हे अग्ने यतोयजमानः सर्वर्त्विजश्च स्वकर्मकर्तुं त्वामागच्छन्ति अतस्त्वं शीघ्रमुद्गमयेत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०