मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११, ऋक् ८

संहिता

यद॑ग्न ए॒षा समि॑ति॒र्भवा॑ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र ।
रत्ना॑ च॒ यद्वि॒भजा॑सि स्वधावो भा॒गं नो॒ अत्र॒ वसु॑मन्तं वीतात् ॥

पदपाठः

यत् । अ॒ग्ने॒ । ए॒षा । सम्ऽइ॑तिः । भवा॑ति । दे॒वी । दे॒वेषु॑ । य॒ज॒ता । य॒ज॒त्र॒ ।
रत्ना॑ । च॒ । यत् । वि॒ऽभजा॑सि । स्व॒धा॒ऽवः॒ । भा॒गम् । नः॒ । अत्र॑ । वसु॑ऽमन्तम् । वी॒ता॒त् ॥

सायणभाष्यम्

हे यजत्र यष्टव्याग्ने यद्यदा एषा समितिः अस्मत्कर्तृका स्तुतिः संहतिश्च यजता यज- तेषु यष्टव्येषु देवेषु मध्ये देवी द्योतमाना भवाति यष्टव्यादेवाः अस्माभिः स्तूयन्ते इज्य- न्ते चेत्यर्थः । हे स्वधावः हविर्लक्षणान्नवन्नग्ने त्वं यद्यदा रत्ना च रत्नानि रमणीयानि धनानि स्तोतृभ्योयष्टृभ्यश्च विभजासि विभजसि अत्र तदानीं तथा नोस्मान् प्रति वसु मन्तं धनवन्तं नानाधनावयवभूतं भागमंशं वीतात् वी गत्यादिषु तुह्योस्ताङाशिष्यन्यतर- स्यामिति हेः स्थाने तातङ्अन्तर्णीतण्यर्थश्चात्र द्रष्टव्यः वयय आगमय अस्मभ्यं प्रयच्छे- त्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०