मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ११, ऋक् ९

संहिता

श्रु॒धी नो॑ अग्ने॒ सद॑ने स॒धस्थे॑ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् ।
आ नो॑ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्या॑ः ॥

पदपाठः

श्रु॒धि । नः॒ । अ॒ग्ने॒ । सद॑ने । स॒धऽस्थे॑ । यु॒क्ष्व । रथ॑म् । अ॒मृत॑स्य । द्र॒वि॒त्नुम् ।
आ । नः॒ । व॒ह॒ । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । माकिः॑ । दे॒वाना॑म् । अप॑ । भूः॒ । इ॒ह । स्याः॒ ॥

सायणभाष्यम्

हे अग्ने सधस्थे सहस्थाने सर्वदेवतासाधारणे सदने यज्ञगृहे स्थितः सन् नोस्मदीयं वचनंश्रुधि श्रृणु । किंतद्वचनं उच्यते अमृतस्यदेवपानस्य मधुनः द्रवित्नुं द्रावकं रथमात्मी- यं युक्ष्व आह्वानार्थं देवान्प्रति गमनाय अश्वैः संयुश्च । संयुक्तेन रथेन गत्वा नोस्माकं यज्ञं प्रति देवपुत्रे देवस्य प्रजापतेर्दुहितरौ यद्वा देवाः पुत्राययोस्ते रोदसी द्यावापृथिव्यौ आवह प्रापय देवानां मध्ये कश्चिद्देवः अपभूः अपभविता अस्मद्यज्ञमपगन्ता माकिः स्यात् त्वं च इहास्मिन्यज्ञे स्याः सन्निहितोभव ॥ ९ ॥

द्यावेति नवर्चं द्वादशं सूक्तं आंगेर्हविर्धानस्यार्षं त्रैष्टुभमाग्नेयम् । द्यावेत्यनुक्रान्तम् । गतो- विनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०