मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२, ऋक् २

संहिता

दे॒वो दे॒वान्प॑रि॒भूरृ॒तेन॒ वहा॑ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान् ।
धू॒मके॑तुः स॒मिधा॒ भाऋ॑जीको म॒न्द्रो होता॒ नित्यो॑ वा॒चा यजी॑यान् ॥

पदपाठः

दे॒वः । दे॒वान् । प॒रि॒ऽभूः । ऋ॒तेन॑ । वह॑ । नः॒ । ह॒व्यम् । प्र॒थ॒मः । चि॒कि॒त्वान् ।
धू॒मऽके॑तुः । स॒म्ऽइधा॑ । भाःऽऋ॑जीकः । म॒न्द्रः । होता॑ । नित्यः॑ । वा॒चा । यजी॑यान् ॥

सायणभाष्यम्

देवोद्योतमानोग्निस्त्वं देवानिन्द्रादीन् परिभूः आह्वानहविर्नयनद्वारेण परिभूः परिगृ- ह्णन् ऋतेन यज्ञेन सह नोस्माकं हव्यं हविः वह प्रापय । कीदृशस्त्वं प्रथमोदेवानां मुख्यः चिकित्वान् सर्वं जानन् धूमकेतुः धूमस्य कर्ता वा धूमध्वजोवा धूमप्रज्ञानोवा समिधा समिंधनेन संदीपनेन भाऋजीकः ऋजुदीप्तिरूर्ध्वज्वलनइत्यर्थः मन्द्रः स्तुत्यः होता आ- ह्वाता नित्योध्रुवः वाचा यजीयान् अतिशयेन यष्टा च ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११