मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२, ऋक् ३

संहिता

स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो॑ जा॒तासो॑ धारयन्त उ॒र्वी ।
विश्वे॑ दे॒वा अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी॑ दि॒व्यं घृ॒तं वाः ॥

पदपाठः

स्वावृ॑क् । दे॒वस्य॑ । अ॒मृत॑म् । यदि॑ । गोः । अतः॑ । जा॒तासः॑ । धा॒र॒य॒न्ते॒ । उ॒र्वी इति॑ ।
विश्वे॑ । दे॒वाः । अनु॑ । तत् । ते॒ । यजुः॑ । गुः॒ । दु॒हे । यत् । एनी॑ । दि॒व्यम् । घृ॒तम् । वारिति॒ वाः ॥

सायणभाष्यम्

देवस्याग्नेः स्वावृक् स्वार्जनं अमृतमुदकं स्वतेजसः सकाशाद्यादि यदा उत्पद्यते तदा अतोस्मात् गोरुदकाज्जातासउप्तन्नाओषधयः उर्वी द्यावापृथिव्यौ धारयन्ते विश्वेदेवाः सर्वे स्तोतारः ते तव संबन्धि तद्यजुः उदकस्य तद्दानं अनुगुः अनुगायन्ति एनी शेता दीप्तिः दिव्यं दिविभवं घृतं क्षरत् यद्वा वृष्टिलक्षणं यदुदकं दुहे दोग्धि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११