मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् १२, ऋक् ५

संहिता

किं स्वि॑न्नो॒ राजा॑ जगृहे॒ कद॒स्याति॑ व्र॒तं च॑कृमा॒ को वि वे॑द ।
मि॒त्रश्चि॒द्धि ष्मा॑ जुहुरा॒णो दे॒वाञ्छ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ॥

पदपाठः

किम् । स्वि॒त् । नः॒ । राजा॑ । ज॒गृ॒हे॒ । कत् । अ॒स्य॒ । अति॑ । व्र॒तम् । च॒कृ॒म॒ । कः । वि । वे॒द॒ ।
मि॒त्रः । चि॒त् । हि । स्म॒ । जु॒हु॒रा॒णः । दे॒वान् । श्लोकः॑ । न । या॒ताम् । अपि॑ । वाजः॑ । अस्ति॑ ॥

सायणभाष्यम्

किंस्विच्छब्दोवितर्कार्थे किंवा राजा दीप्यमानोग्निः नोस्माकं स्वभूतानि हवींषि स्तु- तीश्च जगृहे परिगृह्णीयात् कत् किंवाअस्याग्नेः अतिव्रतं अतिपूजितं व्रतं परिचरणाख्यं कर्म चकृम वयं क्रियास्म कर्मवैगुण्यात् भीतस्य पूर्वार्धे एतद्वचनमुक्तं उत्तरार्धे इदानीं तन्निराक्रियते । हिस्मेतीमौ पूरणौ चिदित्युपमार्थे जुहुराणः स्निग्धमाहूयमानः मित्रः स्नि- ग्धोयथा आगच्छेत तथा नेति संप्रत्यर्थे श्लोकः अस्मदीया स्तुतिलक्षणा वाक् देवानिन्द्रा- दीन् यातां गच्छतु । अपि वाजः हविराख्यं चान्नं यदस्ति तदपि देवान् प्रति गच्छतु देवाः स्तुतिं हविश्च प्रतिगृह्णंत्वित्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११